(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.2. अध्यायः 002
Mahabharata - Sabha Parva - Chapter Topics
द्वारकां गच्छतः श्रीकृष्णस्य युधिष्ठरादिभिः सारत्यादिकरणम्॥ 1॥ अर्धयोजनपर्यन्तं गतानां कृष्णपाण्डवानां परस्परानुज्ञया स्वस्वपुरगमनम्॥2॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच।

उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः।
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः॥ 2-2-1(11288)
गमनाय मतिं चक्रे पितुर्दर्शनलालसः।
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः॥ 2-2-2(11289)
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः।
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः॥ 2-2-3(11290)
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः।
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः॥ 2-2-4(11291)
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्।
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्॥ 2-2-5(11292)
तया स्वजनगामीनि श्रावितो वचनानि सः।
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः॥ 2-2-6(11293)
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्।
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः॥ 2-2-7(11294)
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः।
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च॥ 2-2-8(11295)
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली।
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः॥ 2-2-9(11296)
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः।
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः॥ 2-2-10(11297)
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः।
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि॥ 2-2-11(11298)
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः।
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः॥ 2-2-12(11299)
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः।
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत्॥ 2-2-13(11300)
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्।
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम्॥ 2-2-14(11301)
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते।
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः॥ 2-2-15(11302)
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः।
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्॥ 2-2-16(11303)
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा।
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम्॥ 2-2-17(11304)
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम्।
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान्॥ 2-2-18(11305)
`छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्।
वैडूर्यमणिदण्डं च चामीकरविभूषितम्। 2-2-19(11306)
दधार तरसा भीमः मुच्छत्रं शार्ङ्गधन्वने।
भीमसेनार्जुनौ चापि यमावरिनिषूदनौ'॥ 2-2-20(11307)
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता।
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा॥ 2-2-21(11308)
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः।
`अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा॥ 2-2-22(11309)
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः।
इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः'।
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ॥ 2-2-23(11310)
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा।
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः॥ 2-2-24(11311)
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः।
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत॥ 2-2-25(11312)
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्।
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम्॥ 2-2-26(11313)
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम्।
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः॥ 2-2-27(11314)
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः।
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान्॥ 2-2-28(11315)
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम्॥
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा॥ 2-2-29(11316)
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्।
अतृप्तमनसामेव तेषां केशवदर्शने॥ 2-2-30(11317)
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः।
अकामा एव पार्थास्ते गोविन्दगमानसाः॥ 2-2-31(11318)
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः।
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्॥ 2-2-32(11319)
सात्वतेन च वीरेण पृष्ठतो यायिना तदा।
दारुकेण च सूतेन सहितो देवकीसुतः।
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्॥ 2-2-33(11320)
वैशम्पायन उवाच। 2-2-34x(1382)
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः।
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्॥ 2-2-34(11321)
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट्।
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप॥ 2-2-35(11322)
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम्।
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा॥ 2-2-36(11323)
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्।
अभिवाद्य बलं चैव स्थितः कमललोचनः॥ 2-2-37(11324)
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा।
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः॥ 2-2-38(11325)
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ।
`स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम्॥ 2-2-39(11326)
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा।
विधिवत्कल्पयामास सभां धर्मसुताय वै॥ ॥ 2-2-40(11327)

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वितीयोऽध्यायः॥ 2॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.